|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.207. अध्यायः 207
Mahabharata - Adi Parva - Chapter Topics
पाण्डवावासे धृष्टद्युम्नस्य निलीयावस्थानम्॥ 1 ॥
भीमाद्यानीतस्य भैक्षस्य कुन्त्याज्ञया द्रौपद्या परिवेषणम्॥ 2 ॥
सर्वं पाण्डववृत्तान्तं ज्ञात्वा धृष्टद्युम्नस्य प्रतिनिवर्तनम्॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-207-0x(1151)(9141)
धृष्टद्युमनस्तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ।
अन्वगच्छत्तदा यान्तौ भार्गवस्य निवेशने॥ 1-207-1(9142)
सोज्ञायमानः पुरुषानवधाय समन्ततः।
स्वयमारान्निलीनोऽभूद्भार्गवस्य निवेशने॥ 1-207-2(9143)
सायं च भीमस्तु रिपुप्रमाथी
जिष्णुर्यमौ चापि महानुभावौ।
भैक्षं चरित्वा तु युधिष्ठिराय
निवेदयांचक्रुरदीनसत्वाः॥ 1-207-3(9144)
ततस्तु कुन्ती द्रुपदात्मजां ता-
मुवाच काले वचनं वदान्या।
ततोऽग्रमादाय कुरुष्व भद्रे
बलिं च विप्राय च देहि भिक्षाम्॥ 1-207-4(9145)
ये चान्नमिच्छन्ति ददस्व तेभ्यः
परिश्रिता ये परितो मनुष्याः।
ततश्च शेषं प्रविभज्य शीघ्र-
मर्धं चतुर्णां मम चात्मनश्च॥ 1-207-5(9146)
अर्धं तु भीमाय च देहि भद्रे
य एष नागर्षभतुल्यरूपः।
गौरो युवा संहननोपपन्न
एषो हि वीरो बहुभुक् सदैव॥ 1-207-6(9147)
सा हृष्टरूपैव तु राजपुत्री
तस्या वचः साध्वविशङ्कमाना।
यथावदुक्तं प्रचकार साध्वी
ते चापि सर्वे बुभुजुस्तदन्नम्॥ 1-207-7(9148)
कुशैस्तु भूमौ शयनं चकार
माद्रीपुत्रः सहदेवस्तपस्वी।
अथात्मकीयान्यजिनानि सर्वे
संस्तीर्य वीराः सुषुपुर्धरण्याम्॥ 1-207-8(9149)
अगस्त्यकान्तामभितो दिशं तु
शिरांसि तेषां कुरुसत्तमानाम्।
कुन्ती पुरस्तात्तु बभूव तेषां
पादान्तरे चाथ बभूव कृष्णा॥ 1-207-9(9150)
अशेत भूमौ सह पाण्डुपुत्रैः
पादोपधानीव कृता कुशेषु।
न तत्र दुःखं मनसापि तस्या
न चावमेने कुरुपुङ्गवांस्तान्॥ 1-207-10(9151)
ते तत्र शूराः कथयांबभूवुः
कथा विचित्राः पृतनाधिकाराः।
अस्त्राणि दिव्यानि रथांश्च नागान्
खड्गान्गदाश्चापि परश्वधांश्च॥ 1-207-11(9152)
तेषां कथास्ताः परिकीर्त्यमानाः
पाञ्चालराजस्य सुतस्तदानीम्।
सुश्राव कृष्णां च तदा निषण्णां
ते चापि सर्वे ददृशुर्मनुष्याः॥ 1-207-12(9153)
धृष्टद्युम्नो राजपुत्रस्तु सर्वं
वृत्तं तेषां कथितं चैव रात्रौ।
सर्वं राज्ञे द्रुपदायाखिलेन
निवेदयिष्यंस्त्वरितो जगाम॥ 1-207-13(9154)
पाञ्चालराजस्तु विषण्णरूप-
स्तान्पाण्डवानप्रतिविन्दमानः।
धृष्टद्युम्नं पर्यपृच्छन्महात्मा
क्व सा गता केन नीता च कृष्णा॥ 1-207-14(9155)
कच्चिन्न शूद्रेण न हीनजेन
वैश्येन वा करदेनोपपन्ना।
कच्चित्पदं मूर्ध्नि न पङ्कदिग्धं
कच्चिन्न माला पतिता श्मशाने॥ 1-207-15(9156)
कच्चित्स वर्णप्रवरो मनुष्य
उद्रिक्तवर्णोऽप्युत एव कच्चित्।
कच्चिन्न वामो मम मूर्ध्नि पादः
कृष्णाभिमर्शेन कृतोऽद्य पुत्र॥ 1-207-16(9157)
कच्चिन्न तप्स्ये परमप्रतीतः
संयुज्य पार्थेन नरर्षभेण।
वदस्व तत्त्वेन महानुभाव
कोऽसौ विजेता दुहितुर्ममाद्य॥ 1-207-17(9158)
विचित्रवीर्यस्य सुतस्य कच्चि-
त्कुरुप्रवीरस्य ध्रियन्ति पुत्राः।
कच्चित्तु पार्थेन यवीयसाऽध्य
धनुर्गृहीतं निहतं च लक्ष्यम्॥ ॥ 1-207-18(9159)
इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि सप्ताधिकद्विशततमोऽध्यायः॥ 207 ॥ ॥ समाप्तं स्वयंवरपर्व ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-207-4 अग्रं प्रथममादाय बलिं कुरुष्व भिक्षां च देहि॥ 1-207-18 ध्रेयन्ति जीवन्ति॥ सप्ताधिकद्विशततमोऽध्यायः॥ 207 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|